रूपकाणि
"तद्रूपारोपात्तुरूपकम्"
अर्थात् दृश्यकाव्यस्यान्तर्गते अभिनयकर्तृषु नटेषु रामादीनां स्वरूपस्यारोपं
भूते सति दृश्यकाव्यं रूपकं कथ्यते ,यदभिनययोग्यं भवति । अस्य रूपकस्य
सम्पूर्णदशभेदा: सन्ति, तथा तदतिरिक्तनाटिका
-त्रोटक-गोष्ठी-सट्टक-नाट्य-रासक-प्रस्थानोल्लाप्य-काव्य-प्रेङ्खण-रासक-संलापक-श्रीगदित-
शिल्पक-विलासिका-दुर्मल्लिका-प्रकरणी-हल्लीश-भाणिका-भेदात् च सम्पूर्णान्यष्टादशोपरूकाणि निर्दिष्टानि सन्ति ।
दशरूपकभेदा:
"नाटकमथप्रकरणं भाणव्यायोगसमवकारडिमा: ।
इहामृगाङ्कवीथ्य: प्रहसनमिति रूपकाणि दश ॥"
अर्थात् नाटकप्रकरणभाणव्यायोगसमवकारडिमेहामृगाङ्कवीथीप्रहसनानि च दशरूपकाणि ।
कविराजविश्वनाथमतानुसारेण दशरूपकाणां लक्षणं भावार्थश्च अत्र लिखितं वर्तते -------
१. नाटकस्य लक्षणम् --->
"नाटकं ख्यातवृत्तं स्यात्पञ्चसन्धिसमन्वितम् । विलासद्-र्ध्यादिगुणवद्युक्तं नानाविभूतिभि:॥
सुखदु:खसमुद्भूतिं नानारसनिरन्तरम् । पञ्चादिका दशपरास्त्राङ्का: परिकीर्तिता:॥
प्रख्यातवंशो राजर्षिर्धीरोदात्त: प्रतापवान् । दिव्योऽथ दिव्यादिव्यो वा गुणन्नायको मत: ॥
एक एव भवेदङ्गी श्रृङ्गारो वीर एव वा ।अङ्गमन्य रसा: सर्वे कार्यो निर्वहणेऽद्भूत: ॥
चत्वार: पञ्च वा मुख्या: कार्यव्यापृतपूरूषा: । गोपुच्छाग्रसमाग्रं तु बन्धनं तस्य कीर्तितम् ॥"
भावार्थ: --->
नाटकस्य वृत्तं (कथानकं) इतिहासपुराणादिषु प्रसिद्धं भूयात् । तत् मुखादिपञ्चसन्धिभि: तथानेकविभूतिभिश्च युक्तं भूयात् ।
श्रृङ्गारादिभि: रसाव्यवहितं भवत् तत् नाटकं सुखदु:खादीनामनुभूतिं कारयिताधिकतमदशाङ्कन्यूनतमपञ्चाङ्कयुक्तञ्च
भवाति । एतस्य नायक: प्रख्यातवंशस्य राजर्षि: धीरोदात: प्रतापी दिव्य: (कृष्णवत्) दिव्यादिव्य: (रामादिवत्) भूयात् ।
शृंगारवीरयो: वा कोऽपि एक: रस: प्रधान: भवति , तथा अन्ये रसाङ्गा: (अप्रमुखा:) भवन्ति अपरञ्च निर्वहणसन्धौ
अद्भूतरस: भवति । नाटके सम्पूर्णचत्वार: पञ्च वा मुख्या: पुरूषा: कार्ये संलग्ना: भवन्ति । गोपुच्छस्याग्रभागस्येवाङ्कानां
समायोजनं भवति ।अभिज्ञानशाकुन्तलादीनि नाटकेषु प्रमुखानि सन्ति ।
२. प्रकरणस्य लक्षणम् --->
"भवेत्प्रकरणे वृत्तं लौकिकं कविकल्पितम् । शृंगारोऽङ्गी नायकस्तु विप्रोऽमात्योऽथवा वणिक् ॥
सापायधर्मकामार्थपरो धीतप्रशान्तक: । नायिका कुलजा क्वापि वेश्या क्वापि द्वयं क्वचित् ॥
तेन भेदास्त्रयस्तस्य तत्र भेदस्तृतीयक: । कितवद्यूतकारादिचेटककुलसंकुल: ॥"
भावार्थ: --->
प्रकरणम् रूपकस्य तत्विधाऽस्ति , यस्या: कथावस्तु: लौकिककविकल्पितञ्च भवति । अस्या: विधाया: प्रधानरस: शृंगार:
भवति तथा नायक: ब्राह्मणमन्त्रीवैश्येषु एक: भवति, य: विध्नपूर्णधर्मार्थकामेषु तत्पर: धीरप्रशान्त: च भवति । यथा -
ब्राह्मणनायक: -मृच्छकटिके, अमात्यनायक:- मालतीमाधवे, तथा वैश्यनायक:- पुष्पभूषिते प्राप्यते । प्रकरणस्य नायिका-
वेश्ये वा अथवा उभे भवति यथा - कुलीनानायिका -पुष्पभूषिते, वेश्यानायिका-रंगवृत्ते, तथा उभयो: प्रकारयो: नायिका
मृच्छिकटिके प्राप्यते । अङ्कानां संख्या दश भवति ।
३. भाणस्य लक्षणम् --->
"भाण: स्यात्धूर्तचरितो नानावस्थान्तरान्तक :। एकाङ्क: एक एवात्र निपुण: पण्डितो विट: ॥
रङ्गे प्रकाशयेत्स्वेनानुभूतमितरेण वा । सम्बोधनोक्तिप्रत्युक्तौ कुर्यादाकाशभाषितै: ॥
सूचयेद्वीरशृंगारौ शीर्यसौभाग्यवर्णनै: । तत्रेतिवृतमुत्पाद्यं वृत्ति: प्रायेण भारती ॥
मुखनिर्वहणे संधी लास्याङ्गानिदशापि च ॥"
भावार्थ: --->
धूर्तपात्राणां चरित्रेण युक्तानेकावस्थाभि: व्याप्त: भाण: एकाङ्की एव भवति । एकाकी विट: एव य: निपुणपण्डितश्च भवति -
रङ्गमञ्चे स्वपरयोश्चानुभूता: वार्ता: प्रकाशित: करोति । सम्बोधनोक्तिप्रत्युक्त्यादीनां भाषणमाकाशभाषितेन च भवति ।
सौभाग्यशौर्ययो: वर्णनेन वीरश्रृंङ्गारौ रसौ सूचितौ क्रियेते । अस्य कथावस्तु: कविकल्पितं तथा वृत्ति: प्राय: भारती भवति ।
मुखनिर्वहणसन्धिभि: सह गेयपदादिकानि दसोलास्याङ्गानि भवन्ति। अस्य सर्वप्रमुखोदाहरणं "लीलामधुकरम्" वर्तते ।
४. व्यायोगस्य लक्षणम् --->
"ख्यातेतिवृतो व्यायोग: स्वल्पस्त्रीजनसंयुत:। हीनो गर्भविमर्शाभ्यां नरैर्बहुभिराश्रित:।
एकाङ्कश्च भवेदस्त्रीनिमित्तसमरोदय:। कैशिकीवृत्तिरहित: प्रख्यातस्तत्र नायक: ॥
राजर्षिरथ दिव्यो वा भवेद्धीरोद्धतश्च स: । हास्यशृंगारशान्तेभ्य: इतरेऽत्रांगिनो रसा: ॥
भावार्थ: --->
व्यायोगस्य कथावस्तु: इतिहासप्रसिद्धं भवति । स्त्रीणां संख्या स्वल्पा भवति । पुरूषाणां संख्याधिका: तथा गर्भविमर्शसन्धयो:
अभाव: भवति । अङ्कानां संख्या एका एव भवति । युद्ध: स्त्रीणां कृते न भवति ,तथास्य वृत्तिरपि कैशिकी न भवति अस्य
नायक: प्रख्यात: धीरोद्धत: राजर्षि: दिव्यपुरूष: वा भवति । हास्यश्रृंगारशान्तामतिरिक्त: कश्चिदप्य्न्य: रस: प्रधान: भवति ।
अस्य प्रमुखोदाहरणं "सौगन्धिकाहरणम्" वर्तते ।
५. समवकारस्य लक्षणम् --->
"वृत्तं समवकारे त्तु ख्यातं देवासुराश्रयम् ।संधयो निर्विमर्शास्तु त्रयोऽङ्कास्तत्र चादिमे ।
संधी द्वावन्त्ययोस्तद्वदेक एको भवेत्पुन: । नायका द्वादशोदात्ता: प्रख्याता देवमानवा: ॥
फलं पृथक-पृथग्तेषां वीरमुख्योऽखिलो रस: । वृत्तयो मन्दकैशिक्यो नात्र विन्दुप्रवेशकौ ॥
वीथ्यङ्गानि च तत्र स्युर्यथालाभं त्रयोदश । गायत्र्युष्णिङ्मुखान्यत्र च्छन्दांसि विविधानि च ॥
त्रिश्रृंगारस्त्रिकपट: कार्यश्चायं त्रिविद्रव:। वस्तु द्वादशनालीभिर्निष्पाद्यम् प्रथमाङ्कगम् ॥
द्वितीयऽङ्के चतसृभिर्द्वाभ्याम्ङ्के तृतीयके । धर्मार्थकामैस्त्रिविध: श्रृंङ्गार: कपट: पुन: ॥
स्वाभाविक: कृत्रिमश्च दैवजो विद्रव: पुन: । अचेतनैश्चेतनैश्च चेतनाचेतनै: कृत: ॥
भावार्थ: --->
समवकारस्यान्तर्गते इतिहासपुराणादिप्रसिद्धदेवासुरसम्बद्धविषयककथा निबद्धा क्रियते ।इत्यस्मिन् विमर्शसन्धे:
अभाव: भवति , तथाङ्कानां संख्या तिस्र: एव भवति । एतेषु त्रयेष्वङ्केषु प्रथमाङ्के द्वे सन्धे तथा द्वितीयाङ्के तृतीयाङ्के
च एकैकसन्धि: भवति ।नायकानां संख्या द्वादश: भवति ,ये देवमनुष्याश्च भवन्ति । वीररस: मुख्य: भवति बिन्दुप्रवेशककैशिकी-
वृत्योरभाव: भवति , किन्तु यथासम्भव: त्रयोदशवीथ्यङ्गानि भवन्ति । गायत्र्युष्णिगादीन्यनेकानि प्रकाराणि छन्दांसि भवन्ति ।
त्रिविधश्रृङ्गारा: (धर्मार्थकामश्रृङ्गारा:), त्रिविधकपटा: (स्वाभाविककृत्रिमदैवजकपटा:) तथा त्रिविधविद्रवा:
(चेतन-अचेतनचेतनाचेतनविद्रवा:) भवन्ति । प्रथमाङ्कस्य कथा द्वादशनाणीषु (चतुर्विंशतिघट्टिकायां), द्वितीयाङ्कस्य कथा
चतुर्नाणीषु तथा तृतीयाङ्कस्य कथा द्वयनाणीषु समाप्ता भूयात् । "समुन्द्रमन्थनम्" अस्य सर्वोत्तममोदाहरणं वर्तते ।
६. डिमस्य लक्षणम् --->
"मायेन्द्रजालसंग्रामक्रोधोद्भ्रान्तादिचेष्टितै:। उपरागैश्च भूयिष्ठो डिम: ख्यातेतिवृत्तिक: ॥
अङ्गीरौद्ररसस्तत्र सर्वेऽङ्गानि रसा: पुन: । चत्वारोऽङ्का: मता नेह विष्कम्भकप्रवेशकौ ॥
नायका देवगन्धर्वयक्षरक्षोमहोरगा: । भूतप्रेतपिशाचा: षोडशात्यन्तमुद्धता: ॥
वृत्तय: कैशिकीहीना निर्विमर्शाश्च संधय: । दीप्ता: स्यु: षड्-रसा: शान्तहास्यश्रृंङ्गारवर्जिता :॥"
भावार्थ: --->
अर्थात् यस्य कथा इतिहासप्रसिद्धा भूयात् । स: मायेन्द्रजालसंग्रामक्रोधोन्मतादिचेष्टोपरागैश्च वृतै: व्याप्त: भूयात् ।
एतादृशं रूपकं डिम: कथ्यते । अस्य प्रधान: रस: रौद्र: भवति , तथाङ्कानां संख्या चतस्र: भवन्ति । विष्कम्भकप्रवेशककौशिकी-
वृत्तिशान्तहास्यश्रृंगाररसादिनामभावो प्राप्यते । अस्य डिमस्य नायकानां संख्या षोडश: भवन्ति, ये देवगन्धर्वयक्षराक्षसमहोरग-
भूतप्रेतपिशाचदय: भवन्ति । अस्य सर्वोत्तमोदाहरणं "त्रिपुरदाह" वर्तते ।
७. ईहामृगस्य लक्षणम् --->
ईहामृगो मिश्रवृत्तश्चतुरङ्क: प्रकीर्तित: । मुखप्रतिमुखे संधी तत्र निर्वहणं तथा ॥
नरदिव्यावनियमौ नायकप्रतिनायकौ । ख्यातौ धीरोद्धतावन्यो गूढभावादयुक्तकृत् ॥
दिव्यस्त्रियमनिच्छन्तीमपहारादिनेच्छत: । श्रृंङ्गाराभासमप्यस्य किञ्चित्किञ्चित्प्रदर्शयेत् ॥
पताकानायका दिव्या मर्त्या वापि दशोद्धता: । युद्धमानीय संरम्भं परं व्याजान्निवर्तते ॥
महात्मानो वधप्राप्ता अपि वध्या: स्युरत्र नो । एकाङ्गो देव एवात्र नेतेत्याहु: परै पुन: ॥
दिव्यस्त्रीहेतुकं युद्धं नायका: षडितीतरे ॥
भावार्थ: --->
अर्थात् चतुरङ्कानां संयोगस्य ईहामृगस्य कथावस्तु: ऎतिहासिककविकल्पितञ्च उभे मिश्रिते च भवति , तथा मुखप्रतिमुखनिर्वहण
तिस्र: सन्धय: भवन्ति । एतस्मिन् नायकप्रतिनायकौ च प्रसिद्धौ धीरोद्धतौ मनुष्यौ देवौ वा भवत: । दिव्यादिव्य वा दशोद्धतपुरूषा:
पताकाया: नायका: भवन्ति । " व्यापि प्रासाङ्गिकं वृत्तं पताकेत्यभिधीयते ।" क्रोधावेशे युद्धस्याभ्यास: तु भवति , किन्तु
कश्चित्कारणात् स: युद्ध: न भवति । महापुरूषप्रतिनायकानाञ्च वध: इतिहासप्रसिद्धभूते सति इत्यस्मिन् न दर्शयते । केचन अन्ये
आचार्या: कथयन्ति यत् ईहामृगे एकैवाङ्क: भवति , तथा देवता एव नायक: भवति, यदा यत केचन अन्ये जना: कथयन्ति यत्
नायकानां संख्या षडेव भवन्ति । ध्यातव्यमस्ति यत् मृगतुल्यालभ्यां कामिनीमिच्छति, अत: तं ईहामृगं कथ्यते । यथा -
कुसुमविजयशेखरादय: ।
८. अङ्कस्य लक्षणम् --->
"उत्कृष्टकाङ्क एकाङ्को नेतार: प्राकृता: नरा: । रसोऽत्र करूण: स्थायी बहुस्त्रीपरिदेवितम् ॥
प्रख्यातमितिवृत्तं च कविर्बुद्ध्या प्रपंचयेत् । भाणवत्संधिवृत्याङ्गान्यस्मिञ्जयपराजयौ ॥
युद्धं च वाचा कर्तव्यं निर्वेदवचनं बहु ॥"
भावार्थ: --->
"उत्सृष्टाङ्कम्" अथवा " अङ्कम्" इति एकैवाङ्कं भवति । कश्चित्साधारणपुरूष: अस्य नायक: भवति । स्त्रीणामत्यधिकविलापेन
युक्त: करूणरस: स्थायीरस: भवति । कथा इतिहासप्रसिद्धा भवति । संधिवृत्ति-अङ्कादीनि भाणस्येव भवति । जयपराजयेन सह
वाक्कलहनिवेदकपरकवचनानि च भवन्ति । "शर्मिष्ठाययाति:" अस्य सर्वोत्तमोदाहरणं वर्तर्ते । ध्यातव्यमस्ति यत अङ्कं तु
नाटकेष्वपि भवन्ति , अत: तदङ्कविशेषभेदप्रदर्शितकरणार्थं "उत्कृष्टाङ्कं" कथिमस्ति ।
९. वीथ्य: लक्षणम् --->
"वीथ्यमेको भवेदङ्क: कश्चिदेकोऽत्र कल्प्यते । आकाशभाषितैरूक्तैश्चित्रां प्रत्युक्तिमाश्रित: ॥
सूचयेद् भूरिश्रृंगारं किञ्चिदन्यान्-रसान्प्रति । मुखनिर्वहणे सन्धी अर्धप्रकृतयोऽखिला: ॥"
भावार्थ: --->
इत्यस्यां एकैवाङ्कं भवति तथैकपुरूषं नायकरूपे कल्पितं क्रियते । उक्तिप्रतियुक्तियोजनाकाशभाषितेन भवति । श्रृंगाराधिक्येन
सहान्येषाना: रसाणामपि सूचना दीयते । इत्यस्मिन् मुखनिर्वहणसन्धी च भवत: ,किन्तु सर्वार्थप्रकृतय: भवन्ति ।
श्रृंगाराधिक्यकारणात् कैशिकीवृते: प्रधानता भवति । उद्धात्यकावगलितप्रपञ्चत्रिगतछलवाक्केल्यधिवलगण्डास्यन्दितनालिकासत्प्र-
लापव्यवहारमृदमेवभेदेभ्य: वीथ्य: सम्पूर्णानि त्रयोदशाङ्गानि निर्दिष्टानि सन्ति । वीथ्य: सर्वोत्तमोदाहरणं -"मालविका "
१०. प्रहसनस्य लक्षणम् --->
भाणवत्सन्धिसन्ध्यङ्गलास्यांगाङ्कैर्विनिर्मितम् । भवेत्प्रहसनं वृत्तं निन्द्यानां कविकल्पितम् ॥
अङ्गी हास्यरसस्तत्र वीथ्यंगानां स्थितिर्नवा ॥"
भावार्थ: --->
भाणस्येव सन्धिसन्ध्यङ्गलास्यङ्गाङ्कैश्च सम्पादितं निन्दनीयपुरूषाणां कविकल्पितं वृत्तान्तं प्रहसनं कथ्यते । आरभटीविष्कम्भक-
प्रवेशकानाञ्चाभावो भवति । हास्यरस: एव प्रधानरस: भवति । वीथ्याङ्गानि कुत्रचित् भवन्ति , कुत्रचित् नाऽपि भवन्ति । शुद्धं
(कन्दर्पकेलि:) , संकीर्ण (धूर्त्तचरितम्) तथा विकृतमिति भेदात् प्रहसनस्य त्रैविध्यं निर्दिष्टमस्ति ।
अनेन प्रकारेण वर्णितानि दशरूपकाणि । संस्कृतरूपकेषु सर्वप्रमुखं नाटकं वर्तते, एतस्मात् कथितमस्ति -
काव्येषु नाटकं रम्यं, तत्र रम्या शकुन्तला ।
तत्राऽपि चतुर्थोऽङ्कं , तत्र श्लोकचतुष्टयम् ॥
संस्कृते प्रबोधयादीनि प्रतीकात्मकानि नाटकान्यपि सन्ति ।
("प्रवीण कुमार द्विवेदी")
Monday, April 6, 2009
Friday, November 7, 2008
शेर ---- घबराना मत माता तेरा दिल न तोड़ेगें,
अगर दुश्मन कोई आए किसी काबिल न छोंड़ेगें ।
हर दिल की ये आवाज हैं मंजिल न छोंड़ेगें
किसी मुश्किल मे पड़कर भी कभी करगिल न छोड़ेगें ॥
गीत
हम भारत माँ के सेवक है मर मिट जाएँगें वतन के लिए ।
सर बाँध कफ़न हम निकले हैं फौलाद हैं हम दुश्मन के लिए ॥
(१) प्राणों की बाजी लगा करके शहीदों ने लहु से सींचा हैं ।
पाण्डे,विस्मिल, आजाद, भगत, बापू का यही बगीचा हैं ॥
हम अपनी जान गँवा देंगें भारत रूपी उपवन के लिए ॥
हम भारत माँ ------------------------------------॥
(२) गद्दारों इतना ध्यान रहें आपस में भले अनेक हैं हम ।
तुम देश में हो या बाहर हों बस तेरे लिए तो एक हैं हम ॥
"अनमोल" ये जीवन अर्पण है भारत माता के चरण के लिए ॥
हम भारत माँ ------------------------------------------।
(श्री बलिराम द्विवेदी "अनमोल")
(मेरे परम पूज्य पिताश्री)
अगर दुश्मन कोई आए किसी काबिल न छोंड़ेगें ।
हर दिल की ये आवाज हैं मंजिल न छोंड़ेगें
किसी मुश्किल मे पड़कर भी कभी करगिल न छोड़ेगें ॥
गीत
हम भारत माँ के सेवक है मर मिट जाएँगें वतन के लिए ।
सर बाँध कफ़न हम निकले हैं फौलाद हैं हम दुश्मन के लिए ॥
(१) प्राणों की बाजी लगा करके शहीदों ने लहु से सींचा हैं ।
पाण्डे,विस्मिल, आजाद, भगत, बापू का यही बगीचा हैं ॥
हम अपनी जान गँवा देंगें भारत रूपी उपवन के लिए ॥
हम भारत माँ ------------------------------------॥
(२) गद्दारों इतना ध्यान रहें आपस में भले अनेक हैं हम ।
तुम देश में हो या बाहर हों बस तेरे लिए तो एक हैं हम ॥
"अनमोल" ये जीवन अर्पण है भारत माता के चरण के लिए ॥
हम भारत माँ ------------------------------------------।
(श्री बलिराम द्विवेदी "अनमोल")
(मेरे परम पूज्य पिताश्री)
स्वरचित – संस्कृत – गानम्
भो ! भगवन् भो ! भगवन् भो ! भगवन् भो ! भगवन् ॥
तव चरणयो: वयं पूजां कुर्म: यत् फलं देहि मे ।
वयं विद्यार्थीन: स्म: कुर्वन्त: गुणगान ।
तव सृष्टया हेतु ते भवतु सदा कल्याण ॥
भो ! भगवन् भो ! भगवन् भो ! भगवन् भो ! भगवन् ॥
तव चरणयो: वयं पूजां कुर्म: यत् फलं देहि मे ।
वयं विद्यार्थीन: स्म: कुर्वन्त: गुणगान ।
तव सृष्टया हेतु ते भवतु सदा कल्याण ॥
भो ! भगवन् भो ! भगवन् भो ! भगवन् भो ! भगवन् ॥
स्वरचित संस्कृत - गान
वयं कुर्म: तव सेवां, प्राप्तं करिष्याम: मेवां ।जय श्रीराम जय जय श्रीराम ।२
भो ! भगवन् दयां करोतु मयि त्वयि बहुनि गुणानि सन्ति तेन ।
रावणकुम्भकर्णहननमेतौ ताड़काबालिवधाप्यकरोत् येन् ॥
धन्यौ स्त: पितरौ भवत: , हे प्राणेश्वर ! भव हनुमन्त: ।
ये स्वकल्याणमिच्छन्ति तव शरणैव समागच्छन्ति ॥
जपन् मरा-मरा चौर: वालमीक्यभवत् ।
य: चौर: कति निर्दोषप्राणिन: अहनत् ।
ममता-लता-पुष्पं नीत्वा भवति वन्दना प्रवीणेन । जय श्रीराम जय जय श्रीराम ॥
भो ! भगवन् दयां करोतु मयि त्वयि बहुनि गुणानि सन्ति तेन ।
रावणकुम्भकर्णहननमेतौ ताड़काबालिवधाप्यकरोत् येन् ॥
धन्यौ स्त: पितरौ भवत: , हे प्राणेश्वर ! भव हनुमन्त: ।
ये स्वकल्याणमिच्छन्ति तव शरणैव समागच्छन्ति ॥
जपन् मरा-मरा चौर: वालमीक्यभवत् ।
य: चौर: कति निर्दोषप्राणिन: अहनत् ।
ममता-लता-पुष्पं नीत्वा भवति वन्दना प्रवीणेन । जय श्रीराम जय जय श्रीराम ॥
Saturday, October 25, 2008
वाणी-वन्दना
निनादय नवीनामये वाणी वीणाम् ।
मृदुं गाय गीतिं ललित नीति लीनाम् ॥
मधुर - मञ्जरी- पिञ्जरीभूत- माला:
वसन्ते लसन्तीह सरसा रसाला:
कलापा कलित-कोकिलाका-कलीनाम्
निनादय नवीनामये वाणी वीणाम् ॥
वहति मन्द-मन्दं समीरे सनीरे
कलिन्दात्मजाया: सवानीर तीरे
नतां पंक्तिमालोक्य मधुमाधवीनाम्,
निनादय नवीनामये वाणी वीणाम् ॥
(श्रीजानकीवल्लभशास्त्रिणाम्)
निनादय नवीनामये वाणी वीणाम् ।
मृदुं गाय गीतिं ललित नीति लीनाम् ॥
मधुर - मञ्जरी- पिञ्जरीभूत- माला:
वसन्ते लसन्तीह सरसा रसाला:
कलापा कलित-कोकिलाका-कलीनाम्
निनादय नवीनामये वाणी वीणाम् ॥
वहति मन्द-मन्दं समीरे सनीरे
कलिन्दात्मजाया: सवानीर तीरे
नतां पंक्तिमालोक्य मधुमाधवीनाम्,
निनादय नवीनामये वाणी वीणाम् ॥
(श्रीजानकीवल्लभशास्त्रिणाम्)
Friday, October 17, 2008
मम कल्पना
सुन्दर सुशीला सुभगा सुरम्या सुकान्तियुक्ता मम कल्पनेयम्।
अस्ति प्रवीणाकृति तस्याहारी नमाम्यहं त्वां श्री वन्देनेयम॥
अस्ति प्रवीणाकृति तस्याहारी नमाम्यहं त्वां श्री वन्देनेयम॥
हमार भारत महान
ई आजादी प्रेम के पौधा ह
एके पाले के परी ।
समय समय पर सींचे खातिर
एईंमें खून डाले के परी॥
(प्रवीण कुमार द्विवेदी)
एके पाले के परी ।
समय समय पर सींचे खातिर
एईंमें खून डाले के परी॥
(प्रवीण कुमार द्विवेदी)
भारतम्
भारतीयैकता साधकं संस्कृतम्,
भारतीयत्व संपादकं संस्कृतम्।
ज्ञानपुञ्जप्रभा दर्शकं संस्कृतम्,
सर्वदा सत्यसंशोधकं संस्कृतम्।।
(स्व० वासुदेव द्विवेदी शास्त्री)
भारतीयत्व संपादकं संस्कृतम्।
ज्ञानपुञ्जप्रभा दर्शकं संस्कृतम्,
सर्वदा सत्यसंशोधकं संस्कृतम्।।
(स्व० वासुदेव द्विवेदी शास्त्री)
kathan
सम्यक् विचारं कुरवद्यत: त्वं , विकासमार्गे बाधा नागच्छत्।
वित्तस्य गतय: तिस्र: भवन्ति तवाऽपि तृतीया गति नातु भवतु ॥
वित्तस्य गतय: तिस्र: भवन्ति तवाऽपि तृतीया गति नातु भवतु ॥
मम बिहार: राज्य:
राज्योऽयं मम विश्वकीर्तिसहितो तस्याननं सुन्दरम्,
गायन्ति सुरभारती सुमहिमां देवै: नमस्क्रियते ।
नानासम्यक् भूषणानि सन्ति तस्यान्तरं दृश्यताम्,
राजेन्द्रस्य भूमिरियं बिहारमाराधयामि तमहम् ॥
प्रवीण कुमार द्विवेदी
गायन्ति सुरभारती सुमहिमां देवै: नमस्क्रियते ।
नानासम्यक् भूषणानि सन्ति तस्यान्तरं दृश्यताम्,
राजेन्द्रस्य भूमिरियं बिहारमाराधयामि तमहम् ॥
प्रवीण कुमार द्विवेदी
Subscribe to:
Posts (Atom)