रूपकाणि
"तद्रूपारोपात्तुरूपकम्"
अर्थात् दृश्यकाव्यस्यान्तर्गते अभिनयकर्तृषु नटेषु रामादीनां स्वरूपस्यारोपं
भूते सति दृश्यकाव्यं रूपकं कथ्यते ,यदभिनययोग्यं भवति । अस्य रूपकस्य
सम्पूर्णदशभेदा: सन्ति, तथा तदतिरिक्तनाटिका
-त्रोटक-गोष्ठी-सट्टक-नाट्य-रासक-प्रस्थानोल्लाप्य-काव्य-प्रेङ्खण-रासक-संलापक-श्रीगदित-
शिल्पक-विलासिका-दुर्मल्लिका-प्रकरणी-हल्लीश-भाणिका-भेदात् च सम्पूर्णान्यष्टादशोपरूकाणि निर्दिष्टानि सन्ति ।
दशरूपकभेदा:
"नाटकमथप्रकरणं भाणव्यायोगसमवकारडिमा: ।
इहामृगाङ्कवीथ्य: प्रहसनमिति रूपकाणि दश ॥"
अर्थात् नाटकप्रकरणभाणव्यायोगसमवकारडिमेहामृगाङ्कवीथीप्रहसनानि च दशरूपकाणि ।
कविराजविश्वनाथमतानुसारेण दशरूपकाणां लक्षणं भावार्थश्च अत्र लिखितं वर्तते -------
१. नाटकस्य लक्षणम् --->
"नाटकं ख्यातवृत्तं स्यात्पञ्चसन्धिसमन्वितम् । विलासद्-र्ध्यादिगुणवद्युक्तं नानाविभूतिभि:॥
सुखदु:खसमुद्भूतिं नानारसनिरन्तरम् । पञ्चादिका दशपरास्त्राङ्का: परिकीर्तिता:॥
प्रख्यातवंशो राजर्षिर्धीरोदात्त: प्रतापवान् । दिव्योऽथ दिव्यादिव्यो वा गुणन्नायको मत: ॥
एक एव भवेदङ्गी श्रृङ्गारो वीर एव वा ।अङ्गमन्य रसा: सर्वे कार्यो निर्वहणेऽद्भूत: ॥
चत्वार: पञ्च वा मुख्या: कार्यव्यापृतपूरूषा: । गोपुच्छाग्रसमाग्रं तु बन्धनं तस्य कीर्तितम् ॥"
भावार्थ: --->
नाटकस्य वृत्तं (कथानकं) इतिहासपुराणादिषु प्रसिद्धं भूयात् । तत् मुखादिपञ्चसन्धिभि: तथानेकविभूतिभिश्च युक्तं भूयात् ।
श्रृङ्गारादिभि: रसाव्यवहितं भवत् तत् नाटकं सुखदु:खादीनामनुभूतिं कारयिताधिकतमदशाङ्कन्यूनतमपञ्चाङ्कयुक्तञ्च
भवाति । एतस्य नायक: प्रख्यातवंशस्य राजर्षि: धीरोदात: प्रतापी दिव्य: (कृष्णवत्) दिव्यादिव्य: (रामादिवत्) भूयात् ।
शृंगारवीरयो: वा कोऽपि एक: रस: प्रधान: भवति , तथा अन्ये रसाङ्गा: (अप्रमुखा:) भवन्ति अपरञ्च निर्वहणसन्धौ
अद्भूतरस: भवति । नाटके सम्पूर्णचत्वार: पञ्च वा मुख्या: पुरूषा: कार्ये संलग्ना: भवन्ति । गोपुच्छस्याग्रभागस्येवाङ्कानां
समायोजनं भवति ।अभिज्ञानशाकुन्तलादीनि नाटकेषु प्रमुखानि सन्ति ।
२. प्रकरणस्य लक्षणम् --->
"भवेत्प्रकरणे वृत्तं लौकिकं कविकल्पितम् । शृंगारोऽङ्गी नायकस्तु विप्रोऽमात्योऽथवा वणिक् ॥
सापायधर्मकामार्थपरो धीतप्रशान्तक: । नायिका कुलजा क्वापि वेश्या क्वापि द्वयं क्वचित् ॥
तेन भेदास्त्रयस्तस्य तत्र भेदस्तृतीयक: । कितवद्यूतकारादिचेटककुलसंकुल: ॥"
भावार्थ: --->
प्रकरणम् रूपकस्य तत्विधाऽस्ति , यस्या: कथावस्तु: लौकिककविकल्पितञ्च भवति । अस्या: विधाया: प्रधानरस: शृंगार:
भवति तथा नायक: ब्राह्मणमन्त्रीवैश्येषु एक: भवति, य: विध्नपूर्णधर्मार्थकामेषु तत्पर: धीरप्रशान्त: च भवति । यथा -
ब्राह्मणनायक: -मृच्छकटिके, अमात्यनायक:- मालतीमाधवे, तथा वैश्यनायक:- पुष्पभूषिते प्राप्यते । प्रकरणस्य नायिका-
वेश्ये वा अथवा उभे भवति यथा - कुलीनानायिका -पुष्पभूषिते, वेश्यानायिका-रंगवृत्ते, तथा उभयो: प्रकारयो: नायिका
मृच्छिकटिके प्राप्यते । अङ्कानां संख्या दश भवति ।
३. भाणस्य लक्षणम् --->
"भाण: स्यात्धूर्तचरितो नानावस्थान्तरान्तक :। एकाङ्क: एक एवात्र निपुण: पण्डितो विट: ॥
रङ्गे प्रकाशयेत्स्वेनानुभूतमितरेण वा । सम्बोधनोक्तिप्रत्युक्तौ कुर्यादाकाशभाषितै: ॥
सूचयेद्वीरशृंगारौ शीर्यसौभाग्यवर्णनै: । तत्रेतिवृतमुत्पाद्यं वृत्ति: प्रायेण भारती ॥
मुखनिर्वहणे संधी लास्याङ्गानिदशापि च ॥"
भावार्थ: --->
धूर्तपात्राणां चरित्रेण युक्तानेकावस्थाभि: व्याप्त: भाण: एकाङ्की एव भवति । एकाकी विट: एव य: निपुणपण्डितश्च भवति -
रङ्गमञ्चे स्वपरयोश्चानुभूता: वार्ता: प्रकाशित: करोति । सम्बोधनोक्तिप्रत्युक्त्यादीनां भाषणमाकाशभाषितेन च भवति ।
सौभाग्यशौर्ययो: वर्णनेन वीरश्रृंङ्गारौ रसौ सूचितौ क्रियेते । अस्य कथावस्तु: कविकल्पितं तथा वृत्ति: प्राय: भारती भवति ।
मुखनिर्वहणसन्धिभि: सह गेयपदादिकानि दसोलास्याङ्गानि भवन्ति। अस्य सर्वप्रमुखोदाहरणं "लीलामधुकरम्" वर्तते ।
४. व्यायोगस्य लक्षणम् --->
"ख्यातेतिवृतो व्यायोग: स्वल्पस्त्रीजनसंयुत:। हीनो गर्भविमर्शाभ्यां नरैर्बहुभिराश्रित:।
एकाङ्कश्च भवेदस्त्रीनिमित्तसमरोदय:। कैशिकीवृत्तिरहित: प्रख्यातस्तत्र नायक: ॥
राजर्षिरथ दिव्यो वा भवेद्धीरोद्धतश्च स: । हास्यशृंगारशान्तेभ्य: इतरेऽत्रांगिनो रसा: ॥
भावार्थ: --->
व्यायोगस्य कथावस्तु: इतिहासप्रसिद्धं भवति । स्त्रीणां संख्या स्वल्पा भवति । पुरूषाणां संख्याधिका: तथा गर्भविमर्शसन्धयो:
अभाव: भवति । अङ्कानां संख्या एका एव भवति । युद्ध: स्त्रीणां कृते न भवति ,तथास्य वृत्तिरपि कैशिकी न भवति अस्य
नायक: प्रख्यात: धीरोद्धत: राजर्षि: दिव्यपुरूष: वा भवति । हास्यश्रृंगारशान्तामतिरिक्त: कश्चिदप्य्न्य: रस: प्रधान: भवति ।
अस्य प्रमुखोदाहरणं "सौगन्धिकाहरणम्" वर्तते ।
५. समवकारस्य लक्षणम् --->
"वृत्तं समवकारे त्तु ख्यातं देवासुराश्रयम् ।संधयो निर्विमर्शास्तु त्रयोऽङ्कास्तत्र चादिमे ।
संधी द्वावन्त्ययोस्तद्वदेक एको भवेत्पुन: । नायका द्वादशोदात्ता: प्रख्याता देवमानवा: ॥
फलं पृथक-पृथग्तेषां वीरमुख्योऽखिलो रस: । वृत्तयो मन्दकैशिक्यो नात्र विन्दुप्रवेशकौ ॥
वीथ्यङ्गानि च तत्र स्युर्यथालाभं त्रयोदश । गायत्र्युष्णिङ्मुखान्यत्र च्छन्दांसि विविधानि च ॥
त्रिश्रृंगारस्त्रिकपट: कार्यश्चायं त्रिविद्रव:। वस्तु द्वादशनालीभिर्निष्पाद्यम् प्रथमाङ्कगम् ॥
द्वितीयऽङ्के चतसृभिर्द्वाभ्याम्ङ्के तृतीयके । धर्मार्थकामैस्त्रिविध: श्रृंङ्गार: कपट: पुन: ॥
स्वाभाविक: कृत्रिमश्च दैवजो विद्रव: पुन: । अचेतनैश्चेतनैश्च चेतनाचेतनै: कृत: ॥
भावार्थ: --->
समवकारस्यान्तर्गते इतिहासपुराणादिप्रसिद्धदेवासुरसम्बद्धविषयककथा निबद्धा क्रियते ।इत्यस्मिन् विमर्शसन्धे:
अभाव: भवति , तथाङ्कानां संख्या तिस्र: एव भवति । एतेषु त्रयेष्वङ्केषु प्रथमाङ्के द्वे सन्धे तथा द्वितीयाङ्के तृतीयाङ्के
च एकैकसन्धि: भवति ।नायकानां संख्या द्वादश: भवति ,ये देवमनुष्याश्च भवन्ति । वीररस: मुख्य: भवति बिन्दुप्रवेशककैशिकी-
वृत्योरभाव: भवति , किन्तु यथासम्भव: त्रयोदशवीथ्यङ्गानि भवन्ति । गायत्र्युष्णिगादीन्यनेकानि प्रकाराणि छन्दांसि भवन्ति ।
त्रिविधश्रृङ्गारा: (धर्मार्थकामश्रृङ्गारा:), त्रिविधकपटा: (स्वाभाविककृत्रिमदैवजकपटा:) तथा त्रिविधविद्रवा:
(चेतन-अचेतनचेतनाचेतनविद्रवा:) भवन्ति । प्रथमाङ्कस्य कथा द्वादशनाणीषु (चतुर्विंशतिघट्टिकायां), द्वितीयाङ्कस्य कथा
चतुर्नाणीषु तथा तृतीयाङ्कस्य कथा द्वयनाणीषु समाप्ता भूयात् । "समुन्द्रमन्थनम्" अस्य सर्वोत्तममोदाहरणं वर्तते ।
६. डिमस्य लक्षणम् --->
"मायेन्द्रजालसंग्रामक्रोधोद्भ्रान्तादिचेष्टितै:। उपरागैश्च भूयिष्ठो डिम: ख्यातेतिवृत्तिक: ॥
अङ्गीरौद्ररसस्तत्र सर्वेऽङ्गानि रसा: पुन: । चत्वारोऽङ्का: मता नेह विष्कम्भकप्रवेशकौ ॥
नायका देवगन्धर्वयक्षरक्षोमहोरगा: । भूतप्रेतपिशाचा: षोडशात्यन्तमुद्धता: ॥
वृत्तय: कैशिकीहीना निर्विमर्शाश्च संधय: । दीप्ता: स्यु: षड्-रसा: शान्तहास्यश्रृंङ्गारवर्जिता :॥"
भावार्थ: --->
अर्थात् यस्य कथा इतिहासप्रसिद्धा भूयात् । स: मायेन्द्रजालसंग्रामक्रोधोन्मतादिचेष्टोपरागैश्च वृतै: व्याप्त: भूयात् ।
एतादृशं रूपकं डिम: कथ्यते । अस्य प्रधान: रस: रौद्र: भवति , तथाङ्कानां संख्या चतस्र: भवन्ति । विष्कम्भकप्रवेशककौशिकी-
वृत्तिशान्तहास्यश्रृंगाररसादिनामभावो प्राप्यते । अस्य डिमस्य नायकानां संख्या षोडश: भवन्ति, ये देवगन्धर्वयक्षराक्षसमहोरग-
भूतप्रेतपिशाचदय: भवन्ति । अस्य सर्वोत्तमोदाहरणं "त्रिपुरदाह" वर्तते ।
७. ईहामृगस्य लक्षणम् --->
ईहामृगो मिश्रवृत्तश्चतुरङ्क: प्रकीर्तित: । मुखप्रतिमुखे संधी तत्र निर्वहणं तथा ॥
नरदिव्यावनियमौ नायकप्रतिनायकौ । ख्यातौ धीरोद्धतावन्यो गूढभावादयुक्तकृत् ॥
दिव्यस्त्रियमनिच्छन्तीमपहारादिनेच्छत: । श्रृंङ्गाराभासमप्यस्य किञ्चित्किञ्चित्प्रदर्शयेत् ॥
पताकानायका दिव्या मर्त्या वापि दशोद्धता: । युद्धमानीय संरम्भं परं व्याजान्निवर्तते ॥
महात्मानो वधप्राप्ता अपि वध्या: स्युरत्र नो । एकाङ्गो देव एवात्र नेतेत्याहु: परै पुन: ॥
दिव्यस्त्रीहेतुकं युद्धं नायका: षडितीतरे ॥
भावार्थ: --->
अर्थात् चतुरङ्कानां संयोगस्य ईहामृगस्य कथावस्तु: ऎतिहासिककविकल्पितञ्च उभे मिश्रिते च भवति , तथा मुखप्रतिमुखनिर्वहण
तिस्र: सन्धय: भवन्ति । एतस्मिन् नायकप्रतिनायकौ च प्रसिद्धौ धीरोद्धतौ मनुष्यौ देवौ वा भवत: । दिव्यादिव्य वा दशोद्धतपुरूषा:
पताकाया: नायका: भवन्ति । " व्यापि प्रासाङ्गिकं वृत्तं पताकेत्यभिधीयते ।" क्रोधावेशे युद्धस्याभ्यास: तु भवति , किन्तु
कश्चित्कारणात् स: युद्ध: न भवति । महापुरूषप्रतिनायकानाञ्च वध: इतिहासप्रसिद्धभूते सति इत्यस्मिन् न दर्शयते । केचन अन्ये
आचार्या: कथयन्ति यत् ईहामृगे एकैवाङ्क: भवति , तथा देवता एव नायक: भवति, यदा यत केचन अन्ये जना: कथयन्ति यत्
नायकानां संख्या षडेव भवन्ति । ध्यातव्यमस्ति यत् मृगतुल्यालभ्यां कामिनीमिच्छति, अत: तं ईहामृगं कथ्यते । यथा -
कुसुमविजयशेखरादय: ।
८. अङ्कस्य लक्षणम् --->
"उत्कृष्टकाङ्क एकाङ्को नेतार: प्राकृता: नरा: । रसोऽत्र करूण: स्थायी बहुस्त्रीपरिदेवितम् ॥
प्रख्यातमितिवृत्तं च कविर्बुद्ध्या प्रपंचयेत् । भाणवत्संधिवृत्याङ्गान्यस्मिञ्जयपराजयौ ॥
युद्धं च वाचा कर्तव्यं निर्वेदवचनं बहु ॥"
भावार्थ: --->
"उत्सृष्टाङ्कम्" अथवा " अङ्कम्" इति एकैवाङ्कं भवति । कश्चित्साधारणपुरूष: अस्य नायक: भवति । स्त्रीणामत्यधिकविलापेन
युक्त: करूणरस: स्थायीरस: भवति । कथा इतिहासप्रसिद्धा भवति । संधिवृत्ति-अङ्कादीनि भाणस्येव भवति । जयपराजयेन सह
वाक्कलहनिवेदकपरकवचनानि च भवन्ति । "शर्मिष्ठाययाति:" अस्य सर्वोत्तमोदाहरणं वर्तर्ते । ध्यातव्यमस्ति यत अङ्कं तु
नाटकेष्वपि भवन्ति , अत: तदङ्कविशेषभेदप्रदर्शितकरणार्थं "उत्कृष्टाङ्कं" कथिमस्ति ।
९. वीथ्य: लक्षणम् --->
"वीथ्यमेको भवेदङ्क: कश्चिदेकोऽत्र कल्प्यते । आकाशभाषितैरूक्तैश्चित्रां प्रत्युक्तिमाश्रित: ॥
सूचयेद् भूरिश्रृंगारं किञ्चिदन्यान्-रसान्प्रति । मुखनिर्वहणे सन्धी अर्धप्रकृतयोऽखिला: ॥"
भावार्थ: --->
इत्यस्यां एकैवाङ्कं भवति तथैकपुरूषं नायकरूपे कल्पितं क्रियते । उक्तिप्रतियुक्तियोजनाकाशभाषितेन भवति । श्रृंगाराधिक्येन
सहान्येषाना: रसाणामपि सूचना दीयते । इत्यस्मिन् मुखनिर्वहणसन्धी च भवत: ,किन्तु सर्वार्थप्रकृतय: भवन्ति ।
श्रृंगाराधिक्यकारणात् कैशिकीवृते: प्रधानता भवति । उद्धात्यकावगलितप्रपञ्चत्रिगतछलवाक्केल्यधिवलगण्डास्यन्दितनालिकासत्प्र-
लापव्यवहारमृदमेवभेदेभ्य: वीथ्य: सम्पूर्णानि त्रयोदशाङ्गानि निर्दिष्टानि सन्ति । वीथ्य: सर्वोत्तमोदाहरणं -"मालविका "
१०. प्रहसनस्य लक्षणम् --->
भाणवत्सन्धिसन्ध्यङ्गलास्यांगाङ्कैर्विनिर्मितम् । भवेत्प्रहसनं वृत्तं निन्द्यानां कविकल्पितम् ॥
अङ्गी हास्यरसस्तत्र वीथ्यंगानां स्थितिर्नवा ॥"
भावार्थ: --->
भाणस्येव सन्धिसन्ध्यङ्गलास्यङ्गाङ्कैश्च सम्पादितं निन्दनीयपुरूषाणां कविकल्पितं वृत्तान्तं प्रहसनं कथ्यते । आरभटीविष्कम्भक-
प्रवेशकानाञ्चाभावो भवति । हास्यरस: एव प्रधानरस: भवति । वीथ्याङ्गानि कुत्रचित् भवन्ति , कुत्रचित् नाऽपि भवन्ति । शुद्धं
(कन्दर्पकेलि:) , संकीर्ण (धूर्त्तचरितम्) तथा विकृतमिति भेदात् प्रहसनस्य त्रैविध्यं निर्दिष्टमस्ति ।
अनेन प्रकारेण वर्णितानि दशरूपकाणि । संस्कृतरूपकेषु सर्वप्रमुखं नाटकं वर्तते, एतस्मात् कथितमस्ति -
काव्येषु नाटकं रम्यं, तत्र रम्या शकुन्तला ।
तत्राऽपि चतुर्थोऽङ्कं , तत्र श्लोकचतुष्टयम् ॥
संस्कृते प्रबोधयादीनि प्रतीकात्मकानि नाटकान्यपि सन्ति ।
("प्रवीण कुमार द्विवेदी")
Monday, April 6, 2009
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment